மஹாராயனாய ஸ்ரீ ஸ்ரீ முரளீதர ஸ்வாமிகள் நீதிகதைகளைக் கொண்ட நூல்களை படைத்துள்ளார். இந்த நூல்கள் கதைகளின் மூலமாக அனைத்து மக்களுக்கும் உயர்ந்த உண்மையான அர்த்தங்களை எளிமையாக தெரியப்படுத்துகின்றன. அந்த உயர்ந்த நூல்களில் ஒன்றான “துளஸிதளம்” என்ற நூல் தமிழ் மொழியில் விளங்குகிறது. நமது பாடசாலை வித்யார்த்தி வேதாரண்யம் ஸ்ரீவஸ்சன் இந்த நூலிலிருந்து ஐந்து கதைகளை தேர்ந்தெடுத்து ஸம்ஸ்க்ருதத்தில் மொழிபெயர்த்துள்ளனர். அவர்கள் முயற்சிகள் பாராட்டத்தக்கவை. மேலும்,
महारण्यं श्रीश्रीमुरलीधरस्वामिभिः अनेकाः नीतिबोधनकुशलाः धार्मिकग्रन्थाः प्रणीतास्सन्ति।एते ग्रन्थाः कथाप्रसङ्गेन सर्वेषां जनानां परमतत्त्वार्थान् सौलभ्येन बोधयन्ति।तेषु ग्रन्थेष्वन्यतमः ग्रन्थः तुलसीदलं द्राविडभाषायां सुतरां विराजते। तस्मात् ग्रन्थात् पञ्चकथाः चित्वा अस्मत्पाठशालीय-विद्यार्थी वेदारण्यं.श्रीवत्सः संस्कृतभाषायां अनुवादं अकार्षीत् ।तस्य प्रयासः श्लाघनीयः वर्तते। इतोपि एतादृशाः सद्विषयाः अन्तेवासिभिः वर्धनीयाः ।
1.दुष्कर्मणां चिह्नानि
एकस्मिन् नगरे सद्गुणयुक्तः गोपालो नाम एकः वृद्धः निवसति स्म। तस्य चिरकालं यावत् पुत्रः नासीत्। तदर्थं सः पुण्ययात्रां अकरोत्। बहुकालात् परं तस्य एकः पुत्रः जातः । तस्य “हरिः” इति नामकरणं कृतवान् गोपालः । गोपाल: स्वपुत्रं अतीव लालनेन पोषणं कुर्वन् आसीत्। तेन अतीव लालनेन वा गोपालस्य पुत्रः दुष्टैस्सह मैत्रीं कृत्वा बहूनि दुष्कार्याणि कर्तुं आरब्धवान्। गोपाल: स्वपुत्रस्य कृते बहून् उपदेशान् वदन्नासीत् । परन्तु अपि हरिः दुष्कार्याणि एव करोति स्म। गोपाल: पुत्रस्य स्थितिं दृष्ट्वा खिन्नः अभवत् ।

ग्रामजनाः गोपालस्य गुणवैभवात् तस्य पुत्रं नितरां न दूषितवन्तः ।ते हरेः दुष्कार्याणि सहमानाः आसन्। तथापि ते काले काले गोपालस्य समीपं आगत्य तस्य अनेकानि दुष्कृतानि सूचयन्ति स्म। गोपालः जनानां मनोभावं ज्ञात्वा दुःखितः सः भगवन्तं प्रार्थितवान् । एकदा गोपालगृहस्य काष्ठद्वारे बहवः कीलाः सन्ति स्म। तान् दृष्ट्वा हरिः स्वपितरं किमर्थं बहव: कीलाः सन्ति इति अपृच्छत्। गोपालः तस्य प्रश्नस्य समाधानं वक्तुं आरब्धवान्। यदा यदा नगरजनाः त्वामधिकृत्य निन्दां कुर्वन्ति तदा तदा अहं द्वारे एकैकं कीलं योजयामि। ते कीलाः एव काष्ठद्वारे सन्ति इति गोपालः अवदत्। पितुः वाक्यं श्रुत्वा तान् कीलान् दृष्ट्वा हरिः दुःखितः अभवत् ।ततः हरिः पितरं अवदत् अहं इदानीमेव दुष्कार्येभ्यः मुक्तः भवामि ।इतः परं कदापि दुष्कार्याणि न करिष्यामि। गोपालः स्वपुत्रं अवदत् सर्वे वाचा वक्तुं शक्नुवन्ति तत् सुलभमेव। परन्तु क्रियाकरणेषु कठिनं भवतीति ।पितृवाक्यं श्रुत्वा हरिः बहूनि सत्कार्याणि कर्तुं आरब्धवान्। तदा नगरजनाः तस्य सत्कर्माणि गोपालं उक्तवन्तः । सः

गोपाल: यदा जनाः हरेः सत्कार्याणि वदन्ति तदा द्वारे स्थितान् कीलान् क्रमेण निवारयति स्म।

एवं किञ्चित् कालः गतः। एकदा हरिः स्वगृहस्य काष्ठद्वारे कीलान् अदृष्ट्वा पितरं वदति यद्यपि कीलाः न भवन्ति तेषां गर्तानि वर्तन्ते इति। गोपालः पुत्रं अवदत् अद्यपर्यन्तं त्वं बहुसत्कार्याणि कृतवान् ।अत: अहं सर्वान् कीलान् काष्ठद्वारात् निष्कासितवान् । परन्तु पुरा भवता कृतानि दुष्कार्याणि जनानां मनसि चिह्नानीव वर्तन्ते तानि चिह्नानि एव द्वारकाष्ठे भवन्तीति ।

अतः बालकाः जीवने खेलनार्थं अपि दुष्कार्याणि कदापि न करणीयानि । यदि दुष्कार्येषु आसक्तिः भवति चेत् दुष्कर्मभ्यः बहिः आगन्तुं अत्यन्तं परिश्रमः भवेत्। वयं बाल्यात् आरभ्य एव भगवद्भक्तिं,सत्सङ्गं कुर्मः। तेन प्रकारेण एव अस्मन्मनः दुष्कार्येषु न प्रवर्तेत।